हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...

Srimad Bhagavad Gita – श्रीमद्भगवद्गीता  
 स्तोत्रम् - Stotras Srimad Bhagavad Gita – श्रीमद्भगवद्गीता Valmiki Ramayanam in Sanskrit – वाल्मीकि रामायणम्

Shodasayudha Stotram – षोडशायुध स्तोत्रम्


स्वसङ्कल्पकलाकल्पैरायुधैरायुधेश्वरः ।
जुष्टः षोडशभिर्दिव्यैर्जुषतां वः परः पुमान् ॥ १ ॥

यदायत्तं जगच्चक्रं कालचक्रं च शाश्वतम् ।
पातु वस्तत्परं चक्रं चक्ररूपस्य चक्रिणः ॥ २ ॥

यत्प्रसूतिशतैरासन् द्रुमाः परशुलाञ्छिताः । [रुद्राः]
स दिव्यो हेतिराजस्य परशुः परिपातु वः ॥ ३ ॥

हेलया हेतिराजेन यस्मिन् दैत्याः समुद्धृते ।
शकुन्ता इव धावन्ति स कुन्तः पालयेत वः ॥ ४ ॥

दैत्यदानवमुख्यानां दण्ड्यानां येन दण्डनम् ।
हेतिदण्डेशदण्डोऽसौ भवतां दण्डयेद्द्विषः ॥ ५ ॥

अनन्यान्वयभक्तानां रुन्धन्नाशामतङ्गजान् ।
अनङ्कुशविहारो वः पातु हेतीश्वराङ्कुशः ॥ ६ ॥

सम्भूय शलभायन्ते यत्र पापानि देहिनाम् ।
स पातु शतवक्त्राग्निहेतिर्हेतीश्वरस्य वः ॥ ७ ॥

अविद्यां स्वप्रकाशेन विद्यारूपश्छिनत्ति यः ।
स सुदर्शननिस्त्रिंशः सौतु वस्तत्त्वदर्शनम् ॥ ८ ॥

क्रियाशक्तिगुणोविष्णोर्यो भवत्यतिशक्तिमान् ।
अकुण्ठशक्तिः सा शक्तिरशक्तिं वारयेत वः ॥ ९ ॥

तारत्वं यस्य संस्थाने शब्दे च परिदृश्यते ।
प्रभोः प्रहरणेन्द्रस्य पाञ्चजन्यः स पातु वः ॥ १० ॥

यं सात्त्विकमहङ्कारं आमनन्त्यक्षसायकम् ।
अव्याद्वश्चक्ररूपस्य तद्धनुः शार्‍ङ्गधन्वनः ॥ ११ ॥

आयुधेन्द्रेण येनैव विश्वसर्गो विरच्यते ।
स वः सौदर्शनः कुर्यात् पाशः पाशविमोचनम् ॥ १२ ॥

विहारो येन देवस्य विश्वक्षेत्रकृषीवलः ।
व्यज्यते तेन सीरेण नासीरविजयोऽस्तु वः ॥ १३ ॥

आयुधानामहं वज्रं इत्यगीयत यः स वः ।
अव्याद्धेतीशवज्रोऽसावदधीच्यस्थिसम्भवः ॥ १४ ॥

विश्वसंहृतिशक्तिर्या विश्रुता बुद्धिरूपिणी ।
सा वः सौदर्शनी भूयाद्गदप्रशमनी गदा ॥ १५ ॥

यात्यतिक्षोदशालित्वं मुसलो येन तेन वः ।
हेतीशमुसलेनाशु भिद्यतां मोहमौसलम् ॥ १६ ॥

शूलिदृष्टमनोर्वाच्यो येन शूलयति द्विषः ।
भवतां तेन भवतात् त्रिशूलेन विशूलता ॥ १७ ॥

अस्त्रग्रामस्य कृत्स्नस्य प्रसूतिं यं प्रचक्षते ।
सोऽव्यात् सुदर्शनो विश्वं आयुधैः षोडशायुधः ॥ १८ ॥

श्रीमद्वेङ्कटनाथेन श्रेयसे भूयसे सताम् ।
कृतेयमायुधेन्द्रस्य षोडशायुधसंस्तुतिः ॥ १९ ॥

इति श्रीवेदान्तदेशिक विरचितं षोडशायुध स्तोत्रम् ।


Sri Vishnu Stotras – श्री विष्णु स्तोत्राणि

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.